गोविन्ददासमहाविद्यालयस्य प्रारम्भकाले पदवी अध्ययने संस्कृतभाषायाः अध्ययनस्य अवकाशः नासीत् । किन्तु केचन विद्यार्थिनः स्वकीयया आसक्त्या परिश्रमेण च अभ्यासम् अकुर्वन् । 1978-79 तमे वर्षे विद्वान् श्री विनायक शङ्करलिङ्गः अल्पकालिकः उपन्यासकः भूत्वा कार्यमकरोत् । ततः पदवी विद्यार्थिनां कन्नड तथा हिन्दी भाषाध्ययनवत् संस्कृतस्यापि अवकाशं कल्पयेत् इति निश्चित्य १९८० तमे वर्षे विद्यालये संस्कृतविभागः प्रारब्धः । तदा डा. नारायण वि. भट्टः पूर्णकालिकः अध्यापकः इति नियुक्तः ।
ततः मङ्गलूरु विश्वविद्यालयस्य निर्णयानुसारं कला, वाणिज्य, विज्ञान विषयकेषु पदवीषु भाषापाठ्याः भिन्नतया प्रत्येकं प्रकल्पिताः । तेन कार्यभारं वर्धितम् । तथा अन्यस्य शिक्षकस्य नियुक्तिः आवश्यकमभवत् । अतः श्री वागीश शास्र्त्री इत्यस्य नियोजनं कृतम् । एषः इदानीं कार्यरतः अस्ति । कार्यक्रमाः –
- संस्कृतभाषाध्ययनस्य प्रचाराय संस्कृतसंभाषणशिबिराणि सञ्चालितानि ।
- विद्यार्थिनां उत्साहवर्धनाय भगवद्गीता कण्ठपाठस्पर्धाः;
- संस्कृतसाहित्यरसप्रश्नस्पर्धाः,
- रामायणरसप्रश्नस्पर्धाः आयोजिताः |
- मङ्गलूरु-मैसूरु-उडुपि आयोजितेषु अखिलभारतस्तरेषु संस्कृतसम्मेलनेषु अस्मदीयविद्यार्थिनः भागम् ऊढवन्तः ।
- गीतानुशीलनम् नाम भगवद्गीतायाः अभ्यासगोष्ठी आरब्धा ।
- गीतायाः अर्जुनविषादयोगम् आधृत्य विद्यार्थिभिः यक्षगानीय वाचिकाभिनयः प्रदर्शितः |
- संस्कृतसिन्धुः नाम जनपदसंस्कृतसम्मेलनम् सङ्घटितम् । तत्र प्राचीनभारतीयविज्ञानशास्त्राणां परिचायिका प्रदर्शिनी आसीत् ।
- अस्मदीयविद्यालयस्य पञ्चाशत्तमे वर्षे सुवर्णोत्सवे समारम्भे पुनः सा प्रदर्शिनी संयोजिता ।